Sunday, April 6, 2014

Shri Panini Hrudayam-Eigth Adhyaaya


                                       श्री पाणिनि---हृदयम् अष्टम---अध्याय : प्रथम---पाद :

1.सर्वस्य द्वे =इति अधिकृत्य।

2.तस्य परम् आम्रेडितम्। पटत्पटा इति।

3.अनुदात्तं च =द्विरुक्तस्य परं रूपम् अनुदात्तम् स्यात्। दिवे दिवे।

4.नित्यं वीप्सयो : =आभीक्ष्ण्ये वीप्सायां च द्योत्ये द्विर्वचनम् स्यात्। पचति पचति। भुक्त्वा भुक्त्वा। वीप्सायाम् =वृक्षं वृक्षं सिञ्चति। ग्रामो ग्रामो रमणीया :।

5.परे : वर्जने =परि परि वङ्गेभ्य : वृष्ट : देव :। वङ्गान् परिहृत्य इति अर्थ । परे : वर्जने वा वचनम् =परिवङ्गेभ्य :।:

6.प्र---सम्---उप---उद : पादपूरणे =एषां द्वे स्त :पादपूरणे। प्रे पूजायाम्। प्रप्रायमग्नि :। संसमिद्य्वसे। उपोप मे परामृश। किं नोदुदु हर्षसे।

7.उपरि---अधि---अधस : सामीप्ये =उपर्युपरि ग्रामम्। ग्रामस्य उपरिष्टात् समीपे देश : इति अर्थ :। अध्यधि सुखम्। अधोऽधो लोक :।

8.वाक्यादे : आमन्त्रितस्य असूया---संमति----कोप---भर्त्सनेषु =असूययाम् =सुन्दर सुन्दर वृथा ते सौन्दर्यम्। संमतौ =देव देव वन्द्योऽसि। कोपे =दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि। कुत्सन =धानुष्क धानुष्क वृथा ते धनु :। भर्त्सने =चोरा चोर घातयिष्यामि त्वाम्।

9.एकं बहुव्रीहिवत् =एक शब्द : बहुव्रीहिवत् स्यात्। तेन सुब्लोपपुंवद्भावौ। एकैकम् अक्षरम्। एकैकया आहुत्या। अकैकस्मै देहि।

10.आबाधे =पीडायायां द्योत्यायां द्वे स्त : बहुव्रीहिवत् च। गतागत :। विरहात् पीड्यमानस्य इयम्

उक्ति :। गतागता। इह पुंवद्भाव :।

11.कर्मधारवत् उत्तरेषु =इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यम्। प्रयोजनं सुब्लोपपुंवद्भाव अन्तोदात्तत्वानि।

12.प्रकारे गुण---वचनस्य। सादृश्ये द्योत्ये गुण---वचनस्य द्वे स्त : तत् च कर्मधारयवत्। पटुपट्वी। पटुसदृश :। पूर्वभागस्य पुंवद्भाव :।

13.अकृच्छ्रे प्रिय---सुखयो : अन्यतरस्याम् =प्रियप्रियेण ददाति। प्रियेण वा। सुखसुखेन ददाति। सुखेन ददाति वा।

14.यथास्वे यथातथम् =यथान्कूला वीप्सायाम् अव्ययीभाव :।

15.द्वन्द्वं रहस्य---मर्यादावचन---व्युत्क्रमण---यज्ञपात्रप्रयोग----अभिव्यक्तिषु =द्वन्द्वं मन्त्रयते रहस्यम्। मर्यादावचनम् =आचतुरं हि इमे पशव : द्वन्द्वं मिथुनीयन्ति। व्युत्क्रमणम् =पृथग् अवस्थानम्। द्वन्द्वं व्युत्क्रान्ता :। द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति। अभिव्यक्ति : =द्वन्द्वं संकर्षण---वासुदेवौ। अभिव्यक्तौ साहचर्येण इति अर्थ :।

16.पदस्य , 17.पदात् , 18.अनुदात्तं सर्वम् अपादादौ =इति अधिकृत्य।

19.आमन्त्रितय च =पदात् परस्य पदादिस्थितस्य आमन्त्रितस्य सर्वस्य अनुदात्त : स्यात्।

20.युष्मदस्मदो :  षष्ठी---चतुर्थी---द्वितीयास्थयो : वाम्---नावौ = स्पष्टम् सूत्रम्। वाम् नौ।

21.बहुवचनस्य वस्नसौ =उक्तविधयो : अनयो : षष्ठ्यादिबहुवचनान्तयो :वस्नसौ स्त :। वांनावो : अपवाद :।

22.ते----मयौ एकवचनस्य =उक्तविधयो : अनयो : षष्ठी---चतुर्थी---एकवचन---अन्तयो : ते मे एतौ

स्त :।

23.त्वामौ द्वितीयाया : =द्वितीय---एकवचनान्तयो : त्वां मा एतौ स्त :।

24.न चवाहाहैवयुक्ते =च इति अव्ययं समुच्चये। वा इति विकल्पे। हा इति अद्भुते। ह इति उचितम्।  अह इति खेदे। एव इति अवधारणे। एतेषां द्वन्द्व :। हरि : त्वां च मां च रक्षतु। कथं त्वां मां वा न रक्षेत् इति आदि। परस्परासंबन्धे तु आदेश : स्यात् एव। हर : हरि : च मे स्वामी।

25.पश्य---अर्थै :---च अनालोचने =चेतसा त्वां समीक्षते। परस्परासंबन्धे अपि अयं निषेध :। भक्त : तव रूपं ध्यायति।

26.सपूर्वाया : प्रथमाया विभाषा =भक्त : त्वम् अपि अहं तेन हरि : त्वां त्रायते। स त्वां मां मा इति वा।

27.तिङ : गोत्रादीनि कुत्सनाभीक्ष्ण्ययो : =तिङन्तात् पदात् गोत्रादीनि अनुदात्तानि एतयो :। पचति गोत्रम्। पचति पचति गोत्रम्। एवं प्रवचन्---प्रहसन---प्रकथन---प्रत्यायन् आदय :। गोत्रादीनि किम् ? पचति पापम्। कुत्स इति किम् ? खनति गोत्रम्। समेत्य कूपम्।

28.तिङ् अतिङ : =अतिङन्तात् परं तिङन्तं निहन्यते। अग्निमीले। निहन्यते means dropping of अनुदात्तम्।

29.न लुट् = न लुट्---अन्तं निहन्यते। श्व :कर्ता। श्व कर्तारौ।

30.निपातै : यत्---यदि---हन्त---कुवित्---नेत्---चेत्---चण---कच्चित्---यत्र---युक्तम् = एतै : निपातै : युक्तं  न निहन्यते। य्दग्ने स्यामहं त्वम्।युवा यदी कृथ :। हन्त हर्षे अनुकम्पायां वाक्यारम्भ---विषादयो :।  कुविदङ्ग : आसन्। अचित्तिभि : चकृमा कच्चित्। पुत्रासो यत्र पितरो भवन्ति। यद्यदार्थे च हेतौ चविचारे चेत् चण :।कच्चित् प्रश्ने नेत् निषेधे प्रशम्सायां कुवित् स्मृतम्। यत्रेत्याधारे तत्र मूले कुवित् उदाहृत :। अन्ये अपि अयूह्या :। तत्र ग्रहणं साक्षात् संबन्धप्रतिपादनार्थम्।

31.नह प्रत्यारंभे =नह इति अनेन युक्तं तिङन्तं न अनुदात्तम्। प्रतिषेध युक्त आरंभ : प्रत्यारंभ :। नह भोक्ष्यसे।

32.सत्यं प्रश्ने =सत्य युक्तं तिङन्तं न अनुदात्तं प्रश्ने। सत्यं भोक्ष्यसे। प्रश्ने किम् ? सत्यमिद्वा उ वयम् इन्द्रं स्तवाम।

33.अङ्ग अप्रातिलोम्ये =अङ्ग इति अनेन युक्तं तिङन्तं न अनुदात्तम्। अङ्गं कुरु। अप्रातिलोम्ये

किम् ? अङ्ग कूजसि वृषल। इदानीं ज्ञास्यसि जाल्म। अनभिप्रेतम् असौ कुर्वन् प्रतिलोमो भवति।

34.हि च =हि युक्तं तिङन्तं न अनुदात्तम्। आ हि ष्मा याति। आ हि रुहन्तम्।

35.छन्दसि अनेकम् अपि साकाङ्क्षम् =हि इति अनेन युक्तं साकाङ्क्षम् अनेकम् अपि न अनुदात्तम्। 

36.यावत्---यथाभ्याम् =आभ्याम् युक्तं न अनुदात्तम्। यथा चित्कण्वभावतम्।

37.पूजायां न अनन्तरम् =यावत्---यथाभ्यां युक्तम् अनन्तरं तिङन्तं न अनुदात्तम्। वावत् पचति शोभनम्। यथा पचति शोभनम्। पूजायां किम् ? याव्द्भुङ्क्ते। अनन्तरं किम् ? यावत् देवदत्त : म् अप्रतिषिद्धम् =पचति शोभनम्। पूर्वेण अत्र निघात : प्रतिषिध्यते।

38.उपसर्गव्यपेतं च =पूर्वेण अनन्तरम् इति उक्तम्। उपस्र्गव्यवधानार्थं वचनम्। यावत् पचति शोभनम्। यावत् देवदत्त : प्रपचति शोभनम्।

39.तु पश्य पश्यताहै : = एभि : युक्तं तिङन्तं न निहन्यते पूजायाम्। माणवक : तु भुङ्क्ते। आदह स्वधामनु पुन : गर्भत्वमेरिरे। पूजायां किम् ? पश्य मृग : धावति।

40.अहो च =एतत् योगे न अनुदात्तं पूजायाम्। अहो देवदत्त् अ: पचति शोभनम्।

41.शेषे विभाषा =अहो इति अनेन युक्तं तिङन्तं वा अनुदात्तं पूजायाम्। अहो कटं करिष्यति।

42.पुरा च परीप्सायाम् =पुर इति अनेन युक्तं च अनुदात्तं परीप्सायाम्।(त्वरायाम्}) अधीष्व माणवक। परीप्सायां किम् ? न तेन स्म पुरा अधीयते । पुरा अत्र अतीत इति अर्थ :।

43.नन्वित्यनुज्ञैषणायाम् =ननु इति अनेन युक्तं न अनुदात्तम्। अनुज्ञा प्राथनायाम्। ननु गच्छामि

भो :। अनुजानीहि गच्छन्तं माम् इति अर्थ :।

44.कि क्रियाप्रश्ने अनुपसर्गम् अप्रतिषिद्धम् =क्रियाप्रश्नेन वर्तमानेन कीम् शब्देन युक्तं तिङन्तं न अनुदात्तम्। किं द्विज :आहोस्वित् गच्चति। क्रियेति किम् ? साधनप्रश्ने मा भूत्। कि पचति अपूपान् वा। प्रश्ने किं ? किं पठति। क्षेप : अयम्। अनुपसर्गं किम् ? किं प्रपचति उत् प्रकरोति। अप्रतिषिद्धं किम् ? किं द्विज : न पचति। 

45.लोपे विभाषा =किम : अप्रयोगे उक्तं वा। देवदत्त : पचति आहोस्वित् पठति।

46.एहि मन्ये प्रहासे लृट् = एहि मन्यए इति अनेन युक्तं लृत् अन्तं म अनुदात्तं क्रीडायाम्। एहि मन्येक्तं भोक्ष्यसे , भुक्त तत् तु अतिथिभि :। प्रहासे किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठु मन्यसे।

47.जातु अपूर्वम् =अविद्यमानपूर्ब्वं यत् जातु तेन युक्तं न अनुदात्तम्। जातु भोक्ष्यसे। अपूर्वं किम् ? कटम् जातु करिष्यसि।

48.किंवृत्तं च चिदुत्तरम् =अविद्यमानपूर्वं चित् उत्तरं यत् किंवृत्तं तेन युक्तं तिङन्तं न अनुदात्तम्। विभक्त्यन्तं डतर----डतम्---अन्तं किम : रूपं किंवृत्तम्। कच्चित् भुङ्क्ते। कतरश्चित्। कतमश्चित्। चिदुत्त्रम् म्किम् ? को भुङ्क्ते। अपूर्वम् इति एव। राम : कीचित् पठति।

49.आहो उताहो च अनन्तरम् =आहो उताहो इति आभ्याम् युक्तं तिङन्तं न अनुदात्तम्। आहो उताहो व भुङ्क्ते। अनन्तरम् इति एव। सॆषे विभाषां वक्ष्यति। अपूर्वेति किम् ? देव आहो भुङ्क्ते।

50.शेषे विभाषा =आभ्यां व्यवहितं तिङन्तं व अनुदात्तम्। आहो देव : पचति।

51गत्यर्थालोटा लृट् न चेत् कारके सर्वान्यत् =गत्यर्थलोट  युक्तं तिङन्तं न अनुदात्तम् , यत्रैव कारके ल्ट् तत्रैव लृट् अपि चेत्। आगच्छ देव ग्रामं द्रक्ष्यसि एनम्। उह्यन्तां देवदत्तेन शालय : रामेण भोक्ष्यन्ते। गत्यर्थे किम् ? पच देव ओदनं भोक्ष्यसे अन्नम्। लोटा किम् ? आगच्छे : देव ग्रामं द्रक्षस्येनम्। लृट् किम् ? आगच्छ देव ग्रामं पश्यस्येनम्। न चेत् इति किम् ? अगाच्छ देव ग्रामम् ,पि ते ओदनं भोक्ष्यते। सर्वं किम् ?आगच्छ देव ग्रामं त्वं च अहं च द्रक्ष्याव : एनम् इति अत्र अपि  निघात---निशेध : यथा स्यात्। यत् लोट् अन्तस्य कारकं तच्च अन्तस्य लृट् अन्ते : न उच्यते।

52.लोट् च =लॊट् अन्तं गत्यर्थलोटा युक्तं न अनुदात्तम्। आगच्छ देव ग्रामं पश्य। गत्यर्थेति किम् ? पच देव ओदनं भुङ्क्ष्वैनम्। लोट् किम् ? आगच्छ देव ग्रामं पश्यसि। नचेत् कारकं सर्वान्यत् इति एव।आगच्छ देव ग्रामं , पश्यत्वेनं राम :। सर्वग्रहणात् तु इह स्यात् एव। आगच्च देव ग्रामं त्वं च अहं च पश्याव :। योगविभाग उत्तरार्थ :।

53.विभाषितं सोपसर्गमनुत्तमम् =लोट् अन्तं गत्यर्थलोटा युक्तं तिङन्तम् वा अनुदातम्। आगच्छ देव ग्रामं प्रविश। सोपस्र्गं किम्? आगच्छ देव ग्रामं पश्य। अनुत्तमं किम् ? आगच्छानि देव ग्रामं प्रविशानि।

54.हन्त च =हन्त इति अनेन युक्तं अनुत्तमं लोट् अन्तं वा अनुदात्तम्। ह्न्त प्रविश। सोपसर्गम् इति एव। हन्त कुरु। अनुत्तमम् किम् ? हन्त प्रभुञ्जावहै।

55.आम एकान्त रम् आमन्त्रितम् अनन्तिके =आम :पर्म् एक---पद---अन्तरितम् आमन्त्रितं न अनुदात्तम्। आम् पचसि देवदत्त 3 । एकान्तरं किम् ? आम् प्रपचसि देवदत्त 3 | आमन्त्रितं  किम् ? आम्। पचति देवदत्त :। अनन्तिके किम् ? आम् पचसि देवदत्त।

56.यद्धितुपरं छन्दसि =हि , तु , उत् परं तिङन्तं न अनुदात्तम्। उदसृजो यदङ्गिर :। उशन्ति हि। आख्यास्यामि तु ते।

57.चन---चित्---इव----गोत्त्रादि---तद्धित---आम्रेडितेषु अगते : =एषु षट्सु परत : तिङन्तं न अनुदात्तम्। देव : पचति चन। देव : पचति चित्। देव : पचति इव। देव : पचति गोत्रम्। देव : पचतिकल्पम्। देव : पचतिपचति। अगते : किम् ? देव :प्रपचति चन।

58.च आदिषु  च =चवाहाहैवेषु तिङन्तं न अनुदात्तम्।देव : पचति च खादति च। अगते : इति एव। देव :प्रपचति च। प्रखादति च। प्रथमस्य  "चवायोगे " इति निघात :प्रतिषिध्यते। द्वितीयं तु न्निहन्यते एव।

59.चवायोगे प्रथमा =च---वा इति आभ्यांयोगे प्रथमा दिङ्विभक्ति : न अनुदात्ता।गा : च चारयतिवीणां वा वादयति। इतो वा स्स्तिमीमहे।उत्तर---वाक्ययो : अनुषञ्जनीय---तिङन्त---अपेक्षया इयं प्राथमिकी। योगे किम् ? पूर्वभूतयो : अपि योगे निघातार्थम्। प्रथमा---ग्रहणं द्वितीया---अदे : तिङन्तस्य मा भूत्।

60.हेति क्षियायाम् -=ह युक्ता प्रथमा तिङ्विभक्ति : न अनुदात्ता धर्मव्यतिक्रमे। स्वयं ह रथेन याति 3 The numeral '3' denotes मात्रा ।

61.अहते विनियोगे च =अह युक्ता प्रथमा तिङ्विभक्ति : न अनुदात्ता नानाप्रयोगे क्षियायां च। त्वम् अह ग्रामं गच्छ्। क्षियायाम्। स्वयमह् रथेन याति 3 | उपाध्यायं पदातिं नयति।

62.चाह लोप एवेत्यवधारणम् =च ह एतयो : लोपे प्रथमा तिङ्विभक्ति : न अनुदात्ता। देव ग्रामं गच्छतु। राम एव अरण्यं गच्छतु। ग्रामं केवलं अरण्यं केवलं गच्छतु इति अर्थ :। इह अह लोप :। स च केवलार्थ :।अव्दहारणं किम् ? देव क्वेव भोक्ष्यसे। न क्वचित् इति अर्थ :। अनवकॢतौ एव।

63.चादि लोपे विभाषा =चवाहाहैवानां लोपे प्रथमा तिङ्विभक्ति : न अनुदात्ता। च लोपे। इन्द्र वाजेषु नोऽव। शुक्ला व्रीहय : भवन्ति। श्वेत गा आज्याय दुहन्ति। वा लोपे। व्रीहिभि : यजेत। यवैर्यजेत।

64.वैवावेति च =अहर्वै देवानामासीत्। अयं वाव हस्त आसीत्।

65..एकान्याभ्यां समर्थाभ्याम् =आभ्यां युक्ता प्रथमा विभक्ति :न अनुदात्त छन्दसि। अजामेकां जिन्वति।

66.यद्वृत्तात् नित्यम् =यत्र पदे यत् शब्द : तत : परंतिङन्तंन अनुदात्तम् =य; भुङ्क्ते अत्---अङ्घ्रौ वायु : वाति। अत्र व्यवहिते कार्यम् इष्यते।

67.पूजनात् पूजितं अनुदात्तम् =काष्ठादिभ्य : =पूजनेभ्य : काष्ठादिभ्य : पूजित---वचनम् अनुदात्तम्। काष्ठाध्यापक :। मलोपश्च वक्तव्य :। दारुण---अध्यापक :। अज्ञात---अध्यापक :।

68.सगति : अपि तिङ् =पूजनेभ्य :काष्ठादिभ्य :  तिङन्तं पूजितम् अनुदात्तम्म्। यत्काष्ठं प्रपचति।

69.कुत्सने च सुप्यगोत्रादौ =कुत्सने च सुबन्तेपरे सगति : अगति : अपि तिङनुदात्त :।पचति पूतु। प्रपचति पूति।पचति मिथ्या।,कुत्सने किम् ? प्रपचति शोभनम्।,सुपि किम् ? पचति क्लिश्नाति।अगोत्रादौ किम् ?पचति गोत्रम्।

70.गति : गतौ =अनुदात्त :।अभ्युद्धरति।गति : किम् ?दत्त : पचति। गतौ किम् ? आमन्द्रै :इन्द्र हरिभिर्याहि मयूररोमभि :।  

71.तिङि च उदात्तवति =गति : अनुदात्त : यत् प्रपचति। तिङ्ग्रहणम् उदात्तवत : परिमाणार्थम्। अन्य हि यत्क्रियायुक्ता : प्रादयस्त प्रत्येव गति : तत्र धातौ एव उदात्तवति स्यात् प्रत्यये न स्यात्। उदात्तवति कम् ? प्रपचति।

72.आमन्त्रितं पूर्वमविद्यमानवत् =स्प्ष्टम्। अग्ने तव्। देवास्मान् पाहि। अग्ने इन्द्र वरुण।

73.न आमन्त्रिते समानाधिकरणे =(विशेष्यं।) स्मानाधिकरणे आमन्त्रिते परे नाविद्यमान्त्वात्। हरे दयालो। अग्ने तेजस्विन् न : पाहि।

74.विभाषितं विशेष---वचने =अत्र भाष्यम्। बहुवचनमिति वक्ष्याम् इति। बहुवचनान्तं विशेष्यं समानाधिकरणे विशेषणे परे अविध्यमानवत् वा। यूयं प्रभव :। देवा : शरण्या :। युष्मान् भजे। वो भजे इति वा।

 

                                     । इति प्रथम---पाद : समाप्त :।     Pro.ToTal =3596 + 74 =3670. 

 

 

                                      श्री पाणिनि---हृदयम् अष्टम---अध्याय : द्वितीय ---पाद  :

 

1.पूर्वत्र असिद्धम् =The modifications, amendments and cacellation rules for the सूत्रs which have been deat with ithe in the all previous chapters  are beibg dealt with henceforth.

2.न लोप : सुप्स्वरसंज्ञातुग्विधिषु कृति =सुप् विधौ स्वरविधौ संज्ञाविधौ कृति---तुग्विधौ च न लोप : असिद्ध : नान्यत्र। राजाश्व : इति आदौ।

3.न मु ने =नाभावे कर्तव्यकृते च मु भावो नासिकायां स्यात्।अमुना अमूभ्याम्। अमीभि : अमुष्यै etc.

4.उदात्त---स्वरितयो : यण : स्वरित : अनुदात्तस्य = उदात्तस्थाने स्वरितस्थाने च य : यण् तत : परस्य अनुदात्तस्य स्वरित : स्यात्।

5.एकादश उदात्तेन उदात्त : =उदात्तेन सह एकादश : उदात्त : स्यात्। वोऽश्वा। क्वावरं मरुत :। शेष---निघात : न।

6.स्वरित : वा अनुदात्ते पद---आदौ =अनुदाते पद---आदौ परे उदात्तेन सह एकादस : स्वरित : वा स्यात्। पक्षे पूर्वसूत्रेण उदात्त :। वीदं ज्योतिर्हृदये। अस्य श्लोको दिवीयते।

7.न लोप : प्रातिपदिकान्तस्य =न इति प्रातिपदिक इति च लुप्त ---षष्ठीके पदे। प्रातिपदिकसंज्ञकं यत् पदं तत्---अन्तस्य नकारस्य लोप : स्यात्। न लोपस्य असिद्धत्वात् दीर्घत्वम् एत्वम् ऐस्त्वं च न। यूषभ्यां। यूषभि :। यूषेभ्य : इति। 

8.न ङि संबुध्यो : =नस्य लोप : न स्यात्। ङौ संबुद्धौ च। राजन्। ङो छन्दस्युदाहरणम्। सुप : सुलुक् इति ङेलुक्। निषेध----सामर्थ्यात् प्रत्यय---लक्षणम्। परमेव्योमन्।

9.मादुपधाया : च मतो : वोऽयवादिभ्य : =मवर्ण---वर्ण---अन्तात् म वर्ण वर्णोपधाया : च यवादि वर्जितां परस्य मतो : मस्य व : स्यात्। किंवान्। ज्ञानवान्। विद्यावान्। लक्ष्मीवान्। यशस्वान्। भास्वान्। यवादे : तु यवमान्। भूमिमान्।

10.झय : =झय्---अन्तात् मतो : मस्य व : स्यात्। अपद---अन्तत्वात् जश्त्वम्। विद्युत्त्वान्। 

11.संज्ञायाम् =मतो : मस्य व : स्यात्। अहीवती। सुनीवती। शर---आदीनां च दिर्घ :।

12.आसन्दीवत्---अष्ठीवत्---चक्रीवत्---कक्षीवत्---रुमण्वत्---चर्मण्वती =एते षट् निपात्यन्ते। आसन्दीवन् =ग्राम :। अन्यत्र आसन्नवान्। अस्थि शब्दस्य अष्ठी भाव :। अष्ठीवान् ऋषि :। अन्यत्र अस्थिवान्। चक्रीवान् =राजा। अन्यत्र चक्रवान्। कक्ष्याया : संप्रसारणम्। कक्षीवान् ऋषि :। अन्यत्र कक्ष्यावान्। लवण शब्दस्य रुमण् भाव :। रुमण्वान् पर्वत :। अन्यत्र लवणवान्। चर्मण : लोपाभावी णत्वं च। चर्मण्वती नदी। अन्यत्र चर्मवती।

13.उदन्वान् उदधौ च =उदकस्य उदन्---भाव : मतौ उदधौ संज्ञायां च। उदन्वान् समुद्र : ऋषि : च।

14.राजन्वान् सौराज्ये =राजन्वती भू :। अन्यत्र राजवान्।

15.छन्दसि इर : इ वर्ण अन्तात् रेप अन्तात् च परस्य मतो : मस्य व : स्यात्। हरिवते हर्यश्वाय। गीर्वान्।

16.अनो नुट् =अन् अन्तात् मतो : वस्य नुट् स्यात्। अक्ष्णवन्त : कर्णवन्त :। अस्थन्वन्तं यदन्स्थता।

17.नाद् घस्य =नान्तात् परस्य घस्य नुट् स्यात्। सुपथिन्तर :।

18.कृपो रो ल :=कृप उ : र : ल :इति छेद :। कृप इति लुप्त्---षष्ठीकम्। कृपे : ऋकारस्य अव्यव : यो रेफ---सदृश : तस्य च लकार सदृश : स्यात्। कल्पते। चकॢपे। चकॢपिषे , चकॢप्से। इत्यादि स्यन्दिवत्।

19.उपसर्गस्यायतौ =अयति परस्य उपसर्गस्य यो रेफ : तय लत्वं स्यात्। प्लायते , पलायते।

20.ग्रो यङि =गिरते  रेफस्य स्यात् यङि। गर्हितं गिलति जेगिल्यते।

21.अचि विभाषा =गिरते : रेफस्य लत्वं वा स्यात् अच्---आदौ। गिरति , गिलति। जगार , जगाल।जगरिथ , जगलिथ।

22.परेश्च घाङ्कयो : =परे रेफस्य लो वा स्यात् घ शब्दे अङ्क शब्दे च। पलिघ : परिघ :। पर्यङ्क :। पल्यङ्क :।

23.संयोगान्तस्य लोप :=संयोगान्तं यत् पदं तत् अन्तस्य लोप : स्यात्। इति यलोपे प्राप्ते।एकधम्। एकयम्। मध्वरि :। धात्रंश :। लाकृति :।

24.रात् सस्य् =रेफात् संयोगान्तस्य सस्यैव लोप : नान्यस्य। रेफस्य विसर्ग :। क्रोष्टु :। आमि परत्वात् तृज्वत् प्राप्ते।

25.घि च =धादौ प्रत्यये परे सलोप : स्यात्। एधिताध्वे।

26.झलो झलि =झल : परस्य सस्य लोप : स्यात् झलि =असैद्धाम् असैत्सु :

27.ह्रस्वात् अङ्गात् =

28.इट ईटि =इट : परस्य सस्य लोप : स्यात् ईटि परे। सिच् लोप एकादेसे सिद्ध : वक्तव्य :। आतीत् आतिष्टाम् आतिषु :।

29.स्को : संयोगाद्यो : अन्ते च =प्अदान्ते च झलि च परे च संयोग : तदाद्यो : सकार ककारयो :

लोप : स्यात्। भृट्। भृड्। सस्य श्चुत्वेन श :। तस्य जश्त्वेन ज :। भृज्जौ भृज्ज :। ऋत्विक् ऋत्विजौ ऋत्विज :।

30.चो : कु : =चवर्गस्य कवर्ग : स्यात् झलि पदान्ते च। इति कुत्वम्। क्विन् प्रत्ययस्य इति कुत्वस्य सिद्धत्वात् सुयुक् सुयुग्।

31.हो ढ : =हस्य ध : स्यात् झलि पदान्ते च। हल्ङ्याप् इति सु लोप :। पदान्तत्वात् हस्य ध :। जश्त्वचर्त्वे। लिट् लिहौ लिह :।

32.दादेर्धातो : घ : =उपदेशे दादे : धातो : हस्य घ : स्यात् झलि पदान्ते च। उपदेशे किम् ? अधोग् इति अत्र् यथा स्यात्। दामलिहमात्मन इच्छति दामलिह्यति तत : क्विपि दामलिट् , अत्र मा भूत्।

33.वा द्रुह---मुह---ष्णुह---ष्णिहाम् =एषां ह्रस्व वा घ : स्यात् झलि पदान्ते च। पक्षे ढ :। ध्रुक्। ध्रुग्। ध्रुट्। ध्रुड्। द्रुहौ द्रुह :। द्रुग्भ्याम् ध्रुड्भ्याम्।  ध्रुक्षु। ध्रुट्त्सु। ध्रुट्सु। एवं मुह---श्णुह---श्णिहाम्।

34.नहो ध : =नहो हस्य ध :स्यात् झलि पदान्ते च। उपानह्। उपानद्। उपानहौ। उपानह :।

35आहस्थ : =झलि परे। चर्त्वम्। आत्थ। आहथु :।

36.व्रश्च---भ्रस्ज---सृज---यज---राज---भ्राज---च्छशां ष : =व्रश्च----आदीनां सप्तानां छश् अन्तयो : च षकार अन्त आदेश : स्यात् झलि पदान्ते च। अषस्य जश्त्वेन ड :। निड्भ्यां निड्भि :।

निट्त्सु ,निट्सु।

37.एक---अच  बशो भष् झष्---अन्तस्य स्ध्वो : =धातो : अवयव :य : एकाच् झषन्त : तत्---अवयवस्य बष : स्थाने भष् स्यात् सकारे ध्व शब्दे पदान्ते च। गर्दभम् आचष्टे =तर्दभयति।तत :

किम् ?णि लोप :। गर्धप्। दुग्धं दोग्धा।

38.दध : तथो : च =द्विरुक्तस्य झष् अन्तस्य धाञ् धातो :बश : भष् स्यात् तथयो : प्रयो : स्द्वो : च परत :।वचन सामर्थ्यात् आत् लोप : न स्थानिवत् इति वामनमाधवौ। वस्तुतस्तु पूर्वत्रासिद्धे न स्थानिवत्। धत्त :। दधति। धत्थ :। धत्थ। दध्व :। दध्म :। धत्ते। धत्से। दद्ध्वे। धेहि। अधित।

39.झलां जष : अन्ते =पदान्ते झलां जष : स्यु :। (पटत्पटदिति। वागीश :। चिद्रूपम्।

40.झष : तथयो : धोऽध : =झष : परयो : तथो : ध : स्यात् न तु दधाते :। जश्त्वम्। सिषेद्ध---सिषेधिथ। सेद्धा सेधिता।सेत्स्यति सेधिष्यति। असैत्सीत्।

41.षढो : क : सि =षस्य ढस्य च क : स्यात् सकारे परे।निच् =जिज्भ्यां। निच्शु।

42.रदाभ्यां निष्ठातो न : पूर्वस्य च द : =रेफ दकाराभ्यां परस्य निष्ठातस्य न : स्यात् निष्ठापेक्षया। न : स्यात् पूर्वस्य धातो : दकार : स्यात्। शीर्ण :(शॄ)। भिन्न :। छिन्न :। खिन्न :।

43.संयोगादे : आतो : यण्वत : =निष्ठातस्य न स्यात्। द्राण :। स्त्यान :। ग्लान :।

44.ल्वादिभ्य : =एकविंशति लूञादिभ्य : प्रग्वत्। लून :। ज्या। ग्रहिज्या। जीन :।(वाच्यम्) दून :।

गून :। वाच्यम् =पूञ् विनाशे पूना यवा :। पूतमन्यत्। मृदुतया दुतयेति माघ :।

45.ओदित : च = भुज : भुग्न :। दु ओश्वि उच्छून :। ओ हाक् प्रहीण :। 

46.क्षिय : दीर्घात् =क्षीणवान्। भावकर्मणो :तु क्षित : कामो मया।

47.श्य : अस्पर्शे =शीनं घृतम्। अस्पर्शे किम् ? सीत :।

48.अञ्च : अनपादाने =समक्त :। अनपादाने किम् ? उदक्तम् उदकम्।

49.दिव : अविजिगीषायाम् =विव : निष्टातस्य न : स्यात् अविजिगीषायाम्। द्यून :। विजिगीषायां तु द्यूतम्।

50.निर्वाण : अवाते =निर्वाण : अग्नि : मुनि : च।

51.शुष : क : =शुष्क :।

52.पचो व : =पक्व :।

53.क्षायो म : =क्षाम :।

54.प्रस्त्य : अन्यतरयाम् =निष्तातस्य मो वा स्यात्। प्रस्तीम :। प्रस्तीत :। प्रात् किम् ? स्त्यान :।

55.अनुपसर्गात् फुल्ल---क्षीब----कृश---उल्लाघा : =क्षीब : =मत्त :। कृश : =तनु :। उल्लाघ : =नीरोग :।  अनुपसर्गात् किम् ? प्रफुल्त :। उपकृशित :। प्रक्षीबित :।

56.नुदविदोन्दत्राघाह्रीभ्य : अन्यतरस्याम् =एभ्य : निष्ठातस्य नो वा। नुत्त :। नुन्न :। वित्त :। विन्न :। etc.

57.न ध्याख्यापॄमूर्च्छिमदाम् =एभ्य : निष्ठायां नो न। ध्यात :। ख्यात :। पूर्त :। मूर्च्छित :। मत्त :।

58.वित्त : भोग---प्रत्यये =अनयो : किम् ? विन्न :।

59.भित्त : शकलम् =भिन्नम् अन्यत्।

60.ऋणम् आधमर्ण्ये =ऋतम् अन्यत्}

61.नसत्त---निषत्त---अनुत्त---प्रतूर्त---सूर्त्---गूर्तानि छन्दसि =नसत्तमञ्जसा। निषत्तमस्य चरत :। असन्नं निषण्णम् इति प्राप्ते। उन्दे : नञ् पूर्वस्य =अनुत्तम्। प्रतूर्त्म् इति त्वरते : तुर्वीत्यस्य वा। सूर्तम् इति सृ इति अस्य। गूर्तम् इति गुरी इति अस्य।

62.क्किन् प्रत्ययस्य कु :  =नस्य कुत्वेति अनुनासिक : ङकार :। युङ्(युक्) युञ्जौ युञ्ज :।

63.नशे : वा =नशे : कवर्ग : अन्त---आदेश : वा स्यात् पदान्र्ते। नक्। नग्। नट्। नड्। नशौ।

64.मो नो धातो : =धातो : मस्य न : स्यात् पदान्ते। नत्वस्य असिद्धत्वात् नलोपो न। प्रशाम्यति किति प्रशान्।   प्रसमौ। प्रसम :। प्रशान्भ्याम् इति आदि।

65.म्वो : च =मान्तस्य धातो : मस्य नकार आदेश : स्यात् मकारे वकारे च परे। णत्वम्।चक्षण्वहे। चक्षमिमहे ,चक्षण्महे।

66.ससजुषो : रु :=पदान्तस्य ससुअ सजुष् शब्दस्य रु : स्यात्। जश्त्व अपवाद :। तथा च रत्वस्य निरकासत्वात् नासिद्धत्वम् इति भाव :। तदुक्तं च भाष्ये " पूर्वत्रासिद्धे नास्ति विप्रतिषेध : अभावात् उत्तरस्य " इति , “अपवाद : वचन---प्रामण्यत् " इति च। शिवर् अर्च्य : इति स्थिते।

67.अवया : श्वेतवा : पुरोडा : च =एते संबुद्धौ कृत---दीर्घा : निपात्यन्ते। चात् उक्थशा :।(refer 72nd सूत्र of 2nd पाद of 3rd अद्ध्याय :।) अवया : अवयाजौ अवयाज :।

68.अहन् =अहन् इति अस्य रु : स्यात् पदान्ते। अहोभ्याम्। अहोरात्रि :।

69.सोऽसुपि =अह्न : रेफ आदेश : स्यात् न तु सुपि। अहरह :। अहर्गण :। धूर्पति :। अहर्पति :। गीर्पति :। असुपि किम् ? अहोभ्याम्।

70.अम्न :---ऊध---अव : ----इति उभयथा छन्दसि। रुर्व रेफो । अम्ब एव अम्नरेव। ऊध एव। ऊधरेव। अव एव अवरेव।

71.भुव : च महाव्याहृते : =भुव इति। भुवरिति।

72.वसु---स्रंसु---ध्वसु---अनडुहां द : =सान्त वस्वन्तस्य स्रंसादे : च द : स्यात् पदाअने। अनडुद्भ्याम् इति आदि।

73.तिप्यनस्ते : =पदान्तस्य सस्य द : स्यात् त्पि न तु अस्ते : =अचकात्। अच्काद्। अचकासु :।

74.सिपि धातो : रुर्वा =पदान्तस्य धातो : सस्य रु : स्यात् वा। पक्षे द :। अचका : , अचकात्। शासु अनुशिष्टौ। शास्ति।

75.दश्च =धातो : दान्तस्य पदस्य सिपि परे रु : स्यात् वा। अवे : अवत्।

76.वो : उपधाया दीर्घ : इज्क क : :=रेफान्तस्य धातो : उपधाया इक : दीर्घ : स्यात् पदान्ते। पिपठी :। पिपठिषौ। पिपठिष :। पिपठीर्भ्याम्। वा सरि इति विसर्जनीय :।

77.हलि च =रेफान्तस्य धातो : इको धातो : दीर्घ : स्यात् हलि। न चात् लोपस्य स्थानिवत्। दीर्घविधौ तन्निषेधात्। बहिरङ्गपरिभाषा तु उक्तन्यायेन न प्रवर्तते। प्रतिदीव्न :। यज्वा यज्वानौ यज्वान :।

78.उपधायां च =धातो : उपधाभूतय : रेफ वकारयो : हल् परयो : परत : इक : दीर्घ : स्यात्। ऊर्दते।ऊर्दांचक्रे।

79.न भकुर्छुराम् =भस्य कुर्छुरो : च उपधाया उपधाया दीर्घ : न स्यात्। धुर्य : धौरेय :।

80.अदसोऽसेर्दादु दो म : =अदस : असान्तस्य दात् परस्य उदूतौ स्त : दस्य च म :। अमुमुयङ्। अमुमुयञ्चौ। अमुमुयञ्च :।

81.एत ईद् बहुवचने =अदस : दात् परस्य एत ईत् स्यात् अस्यच मोबह्वचोक्तौ। अमी।।

82.वाक्यस्य टे : प्लुत : उदात्त : =When a noun gets the suffix of calling a person(संबोधन्---अष्टमी ---विभक्ति।) , that noun gets प्लुत and that प्लुत gets उदात्त स्वर।

83.प्रत्यभिवादे अशूद्रे =When a senior person gives blessing to a junior lad saying अभिवादन, the above प्लुत rule applies.

84.दूरात् हूते =The same प्लुत rule also applies,  when a person anybody who is at rhe long distance.

85.हैहे प्रयोगे हैहयो : =The same प्लुत rule applies when word like है or हे are used.

86.गुरो : अनृत : अनन्त्यस्य अपि एकैकस्य प्राचाम् =दूरात् हूते यत् वाक्यम् ऋत् भिन्नस्य अनन्तस्यापि गुरो : वा प्लुत : स्यात्। दे 3 वदत्त। देवद 3 त्त। देवदत्त 3| गुरो : किम् ? वकारात् परस्य अकारस्य मा भूत्। अनृत : किम् ? कृष्ण। एकैकस्य ग्रहणम् पर्याय---अर्थम्। इह प्राचाम् इति योग : विभज्यते। तेन सर्व : प्लुत : विकल्प्यते।

87.ओम् अभ्यादाने =ओं शब्दस्य प्लुत : स्यात् आरंभे। ओ 3 अग्निमीले पुरोहितम्। अभ्यादाने

किम् ? ओमिति एकाक्षरं ब्रह्म।

88.ये यज्ञ---कर्मणि =ये 3 यज्ञ। यज्ञ इति किम् ? ये यजामहे।

89.प्रणव : टे : =यज्ञकर्मणि तॆ : ओमिति देश : स्यात्। अपां रेतांसि जिन्वतो 3म्। टॆ : किम् ? हलन्ते अन्त्यस्य मा भूत्।

90.याज्यान्त : =याज्या मन्त्रा : तेषामन्त्यस्य तॆ : प्लुत : यज्ञकर्मणि। जिह्वामग्ने चकृषे

हव्यवाहा 3म्।

91.ब्रूहि---प्रेष्य---श्रौषट्---वौषट्----आवहनाम् आदे : =येषाम् आदे : प्लुत : यज्ञकर्मणि। अग्नयेनुब्रू 3 हि। अग्नये गोमयानि प्रे 3 ष्य। अस्तु श्रौ 3 सोमस्याग्ने वौ 3 षट्। अग्निमा 3 वह।

92.अग्नीत् प्रेषणे परस्य च =अग्नीध : प्रेषणे आदे : प्लुत : स्यात् परस्य च। ओ 3 श्रा 3 वय।

93.विभाषा पृष्टप्रतिवचने हे :=प्लुत :। नाकर्षी : कटम्। आकर्षं हि 3 |  आकर्षं हि। पृष्टेति किम् ? कटं करिष्यति हि। हे : किम् ? कटं करोति ननु।

94.निगृह्णानुयोगे च =अत्र यत् वाक्यं तस्य टे : प्लुत : वा। अद्यामावास्येत्यात्थ 3 | अमावास्या इति।

95.आम्रेडितं भर्त्सने =दस्यो 3 दस्यो घातयिष्यामि त्वाम्। आम्रेडितग्रहणं द्विरुक्त---उपलक्षणम्।

96.अङ्गयुक्तं तिङ् आकाङ्क्षम् =अङ्ग इति अनेन युक्तं तिङ् प्लवते। अङ्ग कूज 3 इदानीम् ज्ञास्यसि जाल्म। तिङ : किम् ? अङ्ग देवदत्त मिथ्या वदसि। आकाङ्क्षं किम् ? अङ्ग पच। भर्त्स्न इति एव। अङ्ग अधीष्व भक्तं तव दास्यामि। 

97.विचार्यमाणानाम् =वाक्यानां टे : प्लुत :। होतव्यं दीक्षितस्य गृहा 3 इ। न होतव्य 3  मिति| होतव्यम् न होतव्यमिति विचार्यते।

98.पूर्वं तु भाषायाम् =विचार्यमानानां पूर्वमेव प्लवते। अहिर्नु रज्जुर्नु। प्रयोगापेक्षं पूर्वत्वम्। भाषाग्रहणात्पूर्वयोग : छन्दसि इति ज्ञायते।

99.प्रतिश्रवणे च =वाक्यस्य टे : प्लुत : अभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्यए। च। गां मे देहि बो :।  हन्त ते दास्यामि 3.| नित्य : शब्द : भवितुमर्हति। दत्त किमात्थ 3 |

100.अनुदात्तं प्रश्नान्त---अभिपूजितयो : =अनुदात्त : प्लुत : स्यात्। दूरात् हूत आदिषु सिद्धस्य प्लुतस्य अनुदात्तमात्रम् अनेन विधीयते। अग्निभूत 3 इ। पट 3  अग्निभूता : पट : एतयो : प्रश्नान्ते| 

101.चिदिति उपमार्थे प्रयुज्यमाने =वाक्यस्य टे : अनुदात्त : प्लुत :। अग्निचित् भायात्। अग्निरिव भायात्। अग्निरिव भायात्। उपमार्थे किम् ? कथंचित् आहु :। प्रयुज्यमाने किम् ? अग्नि : माणवक : भायात्।

102.उपरिस्वित् आसीत् इति च =टे : प्लुत : अनुदात्त : स्यात्। उपरिस्विदासी 3 त्। अधस्विदासी 3 त्।

इति अत्र तु विचार्यमाणानाम् इति उदात्त : स्यात्।

103.स्वरितम् आम्रेडिते असूया---संमति---कोप---कुत्सनेषु  =स्वरित : प्लुत : स्यात् आम्रेडिते परे असूयादौ गम्ये। असूयायाम् =अभिरूपक 3 अभिरूपक रिक्तं ते अभिरूप्यम्। संमतौ अबिरूपक 3 अबिरूपक शोभनोऊसि। कोपे अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म। कुत्सने शाक्तीक 3 साक्तीक रिक्ता ते शक्ति :।

104.क्षियाशी : प्रैषेषु तिङ् आकाङ्क्षम् =आकाङ्क्षस्य तिङन्तस्य टे : स्वरित : प्लुत : स्यात्। आचारभेदे। स्वयं र्थेन याति 3 उपाध्यायं पदाति : गमयति। प्रार्थनायां  =पुत्रांश्च लप्सीष्ट 3 धनं च तात। व्यापारणे =कटं कुरु 3 ग्रामं गच्छ। आकाङ्क्षं किम् ? दीर्घायुरसि अग्नीदग्नीन् हर।

105.अनन्त्यस्यापि प्रश्न----आख्यानयो : =अनन्तस्य अन्तस्यापि पदस्य टे : स्वरित : प्लुत : एतयो :। अगम : 3 पूर्वा 3 न् ग्रामा 3. न्। सर्वपदानामयम्। आख्याने =आमं 3 पूर्वा 3 न् ग्रामा 3 न्।

106.प्लुतावैव इदुतौ =दूरात्---हूत---आदिषुवित : तत्रैव ऐच : प्लुतप्रस्ङ्गे अत् अवयवौ  इत्---उतौ प्लवेते। ऐ 3 तिकायन। औ ३ पगव।

107.एच : अप्रगृह्यस्यादूरात् हूते  पूर्वस्य अर्धस्याऽऽदुत्तस्य इत्---उअतु =अप्रगृह्यस्य एच : अदूरात् हूते प्लुतविषये पूर्वस्य अर्धस्य आकार : प्लुत : स्यात् उत्तरस्य तु अर्धस्य इत् उतौ स्त :।  प्रश्नान्त---अभिपूजित----विचार्यमाण---प्रत्यभिवाद---याज्यान्तेषु एव। प्रश्नान्ते =अगम : 3 पूर्वा 3 न् ग्रामा 3 न् अग्निभूत 3 इ।अभिपूजिते =करोषि पट 3 उ। विचार्यमाणे =होतव्यं दीक्षितस्य गृह 3 इ। न होतव्य 3 मिति। प्रत्यभिवादे =आयुष्मान् एधि अग्निभूत 3 इ।याज्यान्ते =स्तोमै : विधेमाग्नया 3 इ।परिगणनं किम् ? विष्णुभूते घातयिष्यामि त्वाम्। अदूरात् हूत इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत्। भद्रं करोषि गौरिति। अप्रगृह्यस्य किम् ? शोभने माले। आमन्त्रिते छन्दसि प्लुतविकार : अयं वक्तवुय :। अग्न 3 इ पत्नी व :।

108.तयोर्य्वावचि संहितायाम् =इदुतो : यकार वकारौ स्त : अचि संहितायाम्। अग्न 3 याशा। पट् 3 वाशा। अग्न 3 विन्द्रम्। पट 3 वुदकम्। अचि किम् ? अग्ना 3 इ वरुणौ। संहितायां किम् ? अग्न 3 इ इन्द्र :। संहितायाम् इति अध्याय---समाप्ते : अधिकार :। इदुते : असिद्धय्वात् अयम् आरंभ : सवर्णदीर्घत्वस्य शाकल्यस्य च निवृत्यर्थ :।यवयो : असिद्धत्वात्  " उदात्त---स्वरितयो : यण : स्वरित : अनुदात्तस्य " इति अस्य बाधनार्थो वा।

                                                  | इति द्वितीय : पाद : समाप्त :|             Pro.Total =3670 + 108 = 3778.

                                   श्री पाणिनि---हृदयम्  अष्टम---अध्याय : तृतीय : पाद :

1मतु---वसो : रु संबुद्धौ छन्दसि =रु इति अभिव्यक्तिक : निर्देश :। मत्वन्तस्य वस्वन्तस्य च रु : स्यात्। अलोऽन्त्यस्य इति परिभाषाया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम्। हरि वो मेदिनं त्वा। छन्द्सीर इति वत्वम्।

2.अत्र अनुनासिक : पूर्वस्य तु वा =अत्र रु प्रकरणे रो : पूर्वस्य अनुनासिक : वा स्यात्।

3.आत : अटि नित्यम् =अटि परत : रो पूर्वस्य आत : स्थाने नित्यम् अनुनासिक :। महीँ इन्द्र :। तत्तरीया : तु अनुस्वारम् अधीयते। तत्र छान्दस : व्यत्यय इति प्राञ्च :। एवं च सूत्रस्य फलं चिन्त्यम्।

4.अनुनासिकात् पर अनुस्वार : =अनुनासिकं विहाय रो : पूर्वस्मात् पर : अनुस्वार आगम : स्यात्।खरवसानयो : विसर्जनीय :।

5.सम : सुटि सम : रु : स्यात् सुटि। अलोऽन्त्यस्य।

6.पुम : खयि अम्परे =अम्परे पुम् शब्दस्य रु : स्यात्। पुँस्कोकिल :। पुम्स्कोकिल :। अम्प्रे किम् ? पुंक्षीर :।

7.नश्छव्यप्र्शान् =अम्परे छवि नकार अन्तस्य पसस्य रु : स्यात् न तु प्रशान् शब्दस्य। सत्वम्। श्चुत्वम्। शार्ङ्गिंश्छिन्धि। पदस्य किम् ? हन्ति। अम्परे किम् ? सन्त्सरु :। अप्र्शान् किम् ? प्रशान् तनोति।

8.उभयथर्क्षु =अम्परे छवि नकारस्य रुर्वा। पशूंस्तांश्चक्रे।

9.दीर्घात् अटि समानपदे =दीर्घात् नकारस्य रुर्वा स्यात् अटि तौ चेत् न टौ। एकपादस्थौस्यताम्। देवीँ  अच्छी सुमती।

10.नॄन् पे =नॄन् इति अस्य रु : स्यात् पकारे परे। नॄँ : पाहि। नॄं : पाहि। नॄं : पाहि। नॄन् पाहि। (refer 37th सूत्र of this पाद।

11.स्वतवान् पायौ =रुर्वा। भुवस्तस्य स्वतवँ : पायुरग्ने।

12.कान् आम्रेडिते =कात् नकारस्य रु : स्यात् आम्रेडिते परे। कौतस्कुत :।

13.ढा ढे लोप : =ढस्य लोप : स्यात् ढे परे। गाढा। गाहिष्यते। घाक्ष्यते।

14.रो रि =रेफस्य(रि परे) रेफ प्रे लोप : स्यात्।

15.खरवसानयो : विसर्जनीय : =खरि अवसाने परे रेफस्य विसर्जनीय : स्यात् पदान्ते।

16.रो : सुपि =सप्तमी बहुवचने परे रो : एव विसर्जनीय : न अन्त्यरेफस्य।षत्वं षस्य द्वित्वे प्राप्ते।

17.भो भगो अघो अपूर्वस्य योऽअशि =एतत् पूर्वस्य रो : यादेश : अशि परे। देवा इह देवयिह। अशि किम् ? भोस् , भगोस् , अघोस् are निपाता :। देवा : सन्ति।

18.व्यो : लघुप्रयत्नतर : शाकटायनस्य =पदान्तयो : वकारयकारयो : लघु---उच्चारणौ वयौ व स्त : अशि परे। यस्य उच्चारणे जिह्वाग्र्रोपाग्रमध्यमूलानां शैथिल्यं जायते स : लघूच्चारण :।

19.लोप : शाकल्यस्य =अवर्ण---पूर्वयो : पदान्तयो : यवयो : वा लोप : अशि परे। हर एहि , हरयेहि। विष्ण इह। विष्णविह।

20.ओतो गार्ग्यस्य =ओकारात् परस्य पदान्तस्य लघुप्रय्त्नस्य यकारस्य नित्यं लोप : स्यात्। भो अच्युत। पदान्तस्य किम् ? तोयम्।

21.उञि च पदे =अवर्ण---पूर्वयो : पदान्तयो : यवयो : लोप :उञि पदे। स उ एकाग्नि :।पदे किम् ?तन्त्रयुतम्।

22.हलि सर्वेषाम् =All sages declare लोप of य---व। भो देवा :। भो लक्ष्मि। भो विट्वद्वृन्ह। हलि

किम् ? देवायिह।

23.मोऽनुस्वार : =मान्तस्य पदस्य अनुस्वार : स्यात् हलि। अलोऽन्त्यस्य। हरिं वन्दे। पदस्येति

किम् ? गम्यते।

24.नश्चाऽपदान्तस्य झलि =नस्य मस्य च अपदान्तस्य झलि अनुस्वार : स्यात्। यशांसि। आक्रंस्यते।  झलि किम् ? मन्यते।

25.मो राजि सम : क्वौ =क्विप् अन्ते राजतौ परे म एव स्यात्। सम्राट्।

26.हे मपरे वा =मपरे हकारे परे मस्य म एव स्यात् वा। किम् ह्वलयति। किं ह्व्लयति। ह्वल चलने।य---व---ल---परे यवला व इति वक्तव्यम्।

27.नपरे न : =नपरे हकारे मस्य न : स्यात् वा। किन्ह्नुते। किं ह्नुते।

28.ङ्णो : कुक्टुक् शरि =ङकार---णकारयो : कुक्---टुकौ आगमौ स्त :शरि।} चयो द्वितीया : शरि। पौष्करमादे : इति वाच्यम्। प्राङ्ख्षष्ठ :, प्राङ्क्षष्ठ : , प्राङ्षष्ठ :। सुगण्ठ्षष्ठ :। सुगण्ट्षष्ठ :। सुगण्षष्ठ :।

29.ड : सि धुट् =डात् परस्य सस्य धुट् वा स्यात्। षत्त्सन्त :। षट्सन्त :।

30.नश्च =नकार अन्तात् सस्य धुट् वा =सन्त्स । सन्स :।

31.शि तुक् =नस्य पदान्तस्य शे परे तुक् वा स्यात्। शश्छोटीति छत्व विकल्प :। पक्षे झरो झरीति विकल्प :। सञ्छंभु :। सञ्चछंभु :। सञ्शंबु :।

32.ङ्मो ह्रस्वात् अचि ङ्मुण् नित्यम् =ह्रस्वात् पर : ङम् तदन्तं यत्पदं तस्मात् पर्स्य अच : नित्यं ङ्मुट्

आगम : स्यात्। प्रत्यङ्ङात्मा। सुगण्णच्युत :। सन्नच्युत :।

33.मय उञो वो वा =मय : परस्य उञ : वो वा स्यात् अचि। किमु उक्तम् =किम्वुक्तम्। वत्वसिद्धत्वात् न अनुस्वार :।

34.विसर्जनीयस्य स : =खरि विसर्जनीयस्य स : स्यात्। एतत् अपवादे वा श्रीति प्राप्ते पाक्षिके विसर्गे प्राप्ते। संपुंकानां सो वक्तव्य :। संस्कर्ता। सँस्कर्ता। समो वा लोपमेके इति भाष्यम्। विष्णुस्त्राता।

35.शर्परे विसर्जनीय :  =शर्परे खरि विसर्जनीयस्य न तु अन्यत्। क : त्सरु :। गनाघन : क्षोभेण।

36.वा शरि =शरि परे विसर्जनीयस्य विसर्जनीय एव स्यात् वा। हरि : शेते =हरिश्शेते।

37.कुप्वो : :क :पौ च =कवर्गे पव्गे च परे विसर्जनीयस्य क्रमात् जिह्वामूलीय---उपध्मानीयौ स्त :। चात् विसर्ग :।

38.सोऽपदादौ =विसर्जनीयस्य स : स्यात्। अपदाद्यो : कुप्वो : परयो :। पाश---कल्प---कम्येषुइति वाच्यम्। पयस्पाशम्। यशस्कल्पम्। यशस्कम्। यशस्काम्यति। अनव्ययस्य इति वाच्यम्। प्रात : कल्पम्। काम्ये रोरेवेति वाच्यम्। नेह गी : काम्यति।

39.इण : ष : =इण : परस्य विसर्गस्य षकार : स्यात् पूर्वविषये। सर्पिष्पाशम्। etc.

40.नमस्पुरसो : गत्यो : =गति---संज्ञकयो : अनयो : विसर्गस्य स : कुप्वो : परयो :। नम्स्करोति। पुरस्करोति।

41.इत्---उत् उपधस्य च अप्रत्ययस्य =इकार उकार उपधस्य अप्रत्ययस्य विसर्गस्य ष : स्यात्

कुप्वो :। निष्प्रत्यूहम्।(अनर्घराघव नाटक कर्ता मुरारि : कवि :।) आविष्कृतम्। अप्रत्ययस्य किम् ? अग्नि : करोति वायु : करोति। मुहु : स : प्रतिषेध : मुहु : कामा।

42.तिरस : अन्यतरस्याम् =तिरस : सो वा स्यात् कुप्वो : वा। तिरस्कर्ता। तिर : कर्ता।

43.द्विस्त्रिश्चतुरिति कृत्वोर्थे =कृत्वोर्थे वर्तमनानाम् एतेषं विसर्गस्य षकार : वा स्यात् कुप्वो :। द्विष्करोति। द्वि :करोति। कृत्वोर्थे किम् ? चतुष्कपाल :।

44.इसुसो : सामर्थ्ये =एतयो : विसर्गस्य ब्ष : स्यात् कुप्वो :। सर्पिष्करोति। सर्पि : करोति। सामर्थ्ये किम् ? तिष्ठतु सर्पि :।

45.नित्यं समासे अनुत्तर्पदस्थस्य =इसुसो : विसर्गस्य अनुत्तरपदस्य नित्यं ष : स्यात् कुप्वो : परे। सर्पिष्कुण्डिका। परमसर्पि : कुण्डिका।

46.अत : कृकमिकंसकुंभपात्रकुशाकणीषु अनव्ययस्य =अकारात् उत्तरस्य अनव्ययस्य विसर्फ़स्य समासे नित्यं स्यात् करोत्यादिषु परेषु न तु उत्तरपदस्थस्य। अयस्कार :। अयस्काम :। अत : किम् ? 

गी :कार :। अनव्ययस्य किम् ? स्व : काम :। समासे किम् ? यश :करोति। अनुत्तरपदस्य किम् ? परमयश :कार :।

47.अध : शिरसी पदे =एतयो : विसर्गस्य सादेश : स्यात् पद शब्दे परे =अधस्पदम्। शिरस्पदम्। असमासे शिर :पदम्।अनुत्तरपदे परमशिर :पदम्। कस्कादिषु भास्कर :।

48.एषु इण उत्तरस्य विसर्गस्य ष : स्यात् अन्यत्र तु स : । कास्कान्। कांस्कान्। कस्क :।

कौतस्कुत :। सर्पिष्कुण्डिका। दनुष्कपाल :। ( न क::पौ।)

49.छन्दसि वाऽप्राम्रेडितयो : =विसर्गस्य सो वा स्यात् कुप्वो : प्रशब्दम् आम्रेडितं च वर्जयित्वा। अग्ने त्रातरृतस्कवि :। गिरिर्नविश्वतस्पृथु :। नेह वसू न : पूर्व्य : पति :।अप्रेत्यादि किम् ? अग्नि : प्र विद्वान्। परुष:परुष :।

50.क :करतिकृधिकृतेषु =विसर्गस्य स : स्यात्। प्रदि वो अपस्क :। यथा नो वस्थस्करत्। सुपेशस्करति। वरुणस्कृधि। सोमं न चारुं मघवत्सु  नस्कृतम्। अनदितेरिति किम् ? यथा नो अदित : करत्।

51.पञ्चम्या : परावरध्यर्थे =पञ्चमी विसर्गस्य स : स्यात् उपरि भावार्थे परत :। दिवस्परि प्रथमं जज्ञे। अध्यर्थे किम् ? दिवस्पृथिव्या : पर्योज :।

52.पातौ च बहुलम् =पञ्चम्या इति एव। सूर्यो नो दिवस्पातु।

53.षष्ठ्या : पतिपुत्रपृष्ठपारपदपयस्पोषेषु =वाचस्पतिं विश्वकर्माणम्। दिवस्पुत्राय सूर्याय। दिवस्पृष्ठं भन्दमान :। तमसस्पारमस्य। परिवीत इलस्पदे। दिवस्पयो  दिविस्पयो दिशिषान :। रायस्पोषं यजमानेषु।

54.इडाया वा =पतिप्त्रादिषु परेषु। इलाया : पुत्र : इलस्पुत्र :।

55.अपदान्तस्य मूर्धन्य : =आपाद समाप्ते : अधिकार : अयम्।

56.सहे साध : स : =साड् रूपस्य सहे : सहे : सस्य मूर्ध्न्यादेश : स्यात्। तुराषाट्। तुराष्ड्। तुराषाहौ। तुराषाह :। तुराषाद्भ्याम् इति आदि। तुरं सहते इति अर्थ :। सहे तु ण्वि :। लोके तु सहायते : इति क्विप्। अन्येषाम् अपि इति दीर्घ :।

57.इण्को : =इति अधिकृत्य। पिपठी :षु। पिपठीष्षु।

58.नुम्विसर्जनीयशर्व्यवायेऽपि =एतै : प्रत्येकं व्यवधानेऽपि इण्कुभ्यां सस्य मूर्धन्यादेश : स्यात्।

59.आदेश---प्रत्ययो : =सहे साढ : स : इति सूत्रात् षष्ट्यन्तं पदमनुवर्तते। इण् क वर्गाभ्यां परस्य अपदान्तस्य आदेश :---प्रत्यय---अवयवस्य य : सकार : तस्य मूर्धन्यादेश : स्यात्।

60.शासिवसिघसीनां च =इण्कुभ्यां परस्यैषां सस्य ष : स्यात्। ऊषतु :।

61.स्तैतिण्योरेव षण्यभ्यासात् =अभ्यास इण :परस्य स्तैतिण्यन्तयो : असस्य ष : स्यात्। षभूते सनि नान्यस्य। तुष्टूयती। सुष्वापयिषति।

62.स : स्विदि---स्वदि---सहीनां च =अभ्यास इण : परस्य ण्यन्तनाम् एषां सस्य स् एव , न ष : ,षचि परे सिद्वेदयिषति , सिस्वादयिषति।

63.प्राक् सितात् अड्व्यवाये अपि =सेवसितेत्यत्र सित शब्दात् प्राक् ये सुनोत्यादय : तेषाम् अद्व्यवाय्र् अपि षत्वं स्यात्। न्यषेधत्।

64.स्थादिषु अभ्यासेन च अभ्यासस्य =प्राक् सितात् स्तादिषु अभ्यासेन व्यवाये अपि षत्वं स्यात्। एषाम् एव च अभ्यासस्य न तु सुनोत्यादीनाम्। निषिषेध। निषिषिधतु :।

65.उपस्र्गात् सुनोति---सुवति---स्यति---स्तौति---स्तोभति---स्था से---नय---सेध---सिच---स्ञ्ज---स्वञ्जाम् =उपस्र्गात् निमित्तात् एषां सस्य ष : स्यात्।

66.सदिरप्रते : =प्रतिभिन्नात् उपसर्गात् सदे : सस्य ष : स्यात्।

67.स्तन्भे : =विष्टन्भ :।

68.अवात् च आलम्बन---अविदूर्ययो : =अवात् स्तन्भे : एतयो : अर्थयो : षत्वं स्यात्।

69.वेऎश्च स्वन : भोजने =वि अवाभ्यां स्वनते : सस्य ष स्यात् भोजने।

70.परि---नि---विभ्य : सेव---सित---सय--- सिवु---सह---सुट्---स्तु---स्वञ्जाम् =परिनिविभ्य : परेषाम् एषां सस्य ष : स्यात्। निषेधति। 

71.सिवादीनाम् वा अड्व्यवाये अपि =अड्व्यवये अपि सिवादीनां सस्य श स्यात् वा।

72.अनुपर्यभिनिभ्य : स्यन्दते : अप्राणिष् =स्पष्टम् अर्थम्।

73.वे : स्कन्दे : अनिष्ठायाम् = स्पष्टम्।

74.परेश्च =स्पष्टम्।

75.परिस्कन्द : प्राच्य---भरतेषु =पूर्वेण मूर्धन्यप्राप्ते तदभावो निपात्यते। परिस्कन्द :। प्राच्येति किम् ? परिष्कन्द :। परिस्कन्द :।परे : च इति विकल्प :। स्तन्भ्रेरिति षत्वे प्राप्ते।

76.स्फुरति----स्फुलत्यो : निर्निविभ्य : षत्वं वा स्यात्।निस्फुरति , निष्फुरति।

77.वे : स्क्भ्नाते : नित्यम् =स्पष्टम्।

78.इण : षीध्वंलुङ्लिटां धोऽङ्गात् =ईन्नन्तात् अङ्गात् परेषां षीध्वंलुङ्लिटां धस्य मूर्धन्य : स्यात्। एधांचकृढ्वे।

79.विभाषे ट : =इण : ओपर :य इट् तत : परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्य : स्यात्।अयिशीढ्वम्। अयिषीध्वम्। 

80.समसे आङ्गुले : सङ्ग : =अङ्गुलिषङ्ग :। समासे किम् ? अङ्गुले : सङ्ग :।

81.भीरो : स्थानम् =भीरुष्ठानम्। समासे कि ? भीरो : स्थानम्।

82.अग्ने : स्तुत्---स्तोम---सोमा : =अग्निष्टुत्। अग्निष्टोम। अग्निषोम :।

83.ज्योतिराय्ष : स्तोम : =जोतिष्टोम :। आयुष्टोम :। स्मस्से किम् ? जोतिष : स्तोम :।

84.मातृ---पितृभ्यां स्वसा =मातृष्वसा। पितृष्वसा।

85.मातु : पितुर्भ्याम् अन्यतरस्याम् =मातुष्वसा। मातु : स्वसा। एवं पितृ शब्दस्य च।

86.अभिनिस : स्तन : शब्द----संज्ञायाम् =अस्मात् स्तने : सस्य  मूर्धन्य : । अभिनिष्टानो वर्ण :। शब्दसंज्ञायां किम् ? अभिनिस्स्तनति मृदङ्ग :।

87.उपसर्गपादुर्ह्यामस्तिर्यच्पर : =उपसर्गेण प्रादुस : च परस्य अस्ते : सस्य ष : स्यात् अकारे अचि च परे =निष्यात्। प्रादु:स्यात्। निषन्ति। प्रादुष्यन्ति।

88.सुविर्दुर्भ्य : सुपि---सूति---समा : =एभ्य : सुप्यादे : सस्य ष : स्यात्। " पूर्वं धातुरुपसर्गेण युज्यते "।

किति लिटि परत्वात् संप्रसारणे षत्वे च कृते द्वित्वम्। पूर्वत्रासिद्धीयम् अद्विर्वचने। सुषुषुपतु :।

सुषुषुपु :।

89.निनदीभ्यां स्नाते : कौशले =निष्णात : शास्त्रेषु। नद्यां स्नाति इति नदीष्ण :। सुपि इति क :।

90.सूत्रं प्रतिष्णातम् =प्रते : स्नाते : षत्वम्। प्रतिष्णातं सूत्रम्। शुद्धम् इति अर्थ :।

91.कपिष्ठलो गोत्रे =कपिष्ठलो नाम ऋषि :। कपिष्ठलि : पुत्र :। गोत्रे किम् ? कपीनां स्थलं कपिस्थलम्।92.प्रष्ठो अग्रगामिनि =प्रतिष्ठत इति प्रष्ठो गौ :। अग्रत : गच्छति इति अर्थ :। अग्रेति किम् ? प्रस्थ ।

93.वृक्षासनयो : विष्टर : =विष्टर : वृक्ष : आसनं च। वृक्षे किम् ? वाक्यस्य विस्तर :।

94.छन्दोनाम्नि च =स्र इति अनुवर्तते। विष्टारपङ्क्ति : छन्द :। विस्तीर्यन्ते अस्मिन् अक्षराणि इति अधिकरणे घञ्। तत : कर्मधारय :।

95.गवि---युधिभ्यां स्थिर : =गविष्ठिर :। युधिष्ठिर :।

96.विकुशमिपरिभ्य : स्थलम् =विष्ठलम्। कुष्ठलम्। शमिष्ठलम्। परिष्ठलम्।

97.अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्कङ्गुमञ्जिपुञ्जिपर्मेबर्हिर्दिव्यग्निभ्य: :  स्थ :=स्पष्टम् अर्थम्।

98.सुषमादिषु च =सुषमा सुषंधि।

99.एति संज्ञायाम् =सस्य मूर्धन्य :। हरिषेण :। एति किम् ?। हरिसक्थ :। संज्ञायां किम् ? पृथुसेन :।

100.नक्षत्र---आत् वा =रोहिणीषेण :। आकारात् किम् ? शतभिषक्सेन :। आकृतिगण :।

101.ह्रस्वात् तादौ तद्धिते =ह्रस्वात् इण : परस्य सस्य शह : स्यात् तादौ तद्धिते =निर्गत :

वर्णाश्रमेभ्य : निष्टय : चण्डलादि :।

102.निसस्तपतौ अनासेवने =निष्टप्तं रक्ष :। निष्टप्ता अरातय :। अनासेवने किम् ? पुन : पुन : तपति निस्तपति।

103.युष्मत्त्तत्तत्तक्षुष्वन्त : पादम् =पादमध्यस्थस्य स्स्य मूर्धन्य : स्यात् तकारादिषु एषु परेशु । युषमदादेश :। त्वंवातेतवा :। त्रिभिष्ट्वं देव सवित :। तेभिष्ट्वा। आभिष्टे। अप्स्वग्ने सधिष्टव। अग्निष्टदविशम्। । etc. द्यावापृथिवी निष्टतक्षु :। अन्त: पादम् किम् ? तदग्निस्तदर्यमा।

104,यजुष्येकेषाम् =युष्मत्तत्ततक्षुषु परस्य सस्य मूर्धन्यो वा। अर्चिर्भिष्टवम्। अग्निष्टे अग्रम्। अर्चिर्भिष्ट तक्षु :। पक्षे अर्चिभिस्त्वम् इति आदि।

105.स्तुतस्तोमयोश्छन्दसि =नृभुष्टुतस्य। नृभि :स्तुतस्य। गोष्टोमम्। गोस्तोमम्। पूर्वपदात् इति एव सिद्धे प्रपञ्चार्थमिदम्। 

106.पूर्वपदात् =पूर्वपदात् निमित्तात् परद्य सस्य षो वा। यदिन्द्राग्नी दिविष्ठ :। युवं हि स्थ : स्वर्पती।

107.सुञ : =पूर्वपदस्थात् निमित्तात् परस्य सुञ : निपातस्य सश्य ष :। ऊर्ध्व ऊषुण :। अभीषुण :।

108.सनोतेरन : =गोषा इन्द्रो(इन्दो ?।) नृषा असि। अन : किम् ? गोसनि :।

109.सहे : पृतनर्ताभ्यां च =पृतनाषाहम्। ऋताषाहम्। चात्। इतीषाहम्।

110.न रपरसृपिस्जिस्पृशिस्पृहिसवनादीनाम् =अर्थं स्पष्टम्। Anyway we can refer नागेशभट्ट :।

111.सात् पदाद्यो : =सस्य षत्वं न स्यात्। दधि सिञ्चति। कृत्स्नं शस्त्रमग्नि : संपद्यते अग्निसात्भवति।(अग्नीभवति।)

112.सिच : यङि =सिच : सस्य षो न स्यात् चङि। निसेसिच्यते।

113.सेधदे : गतौ =गत्यर्थस्य सेधते : षत्वं न स्यात्। ग्ग्गं विसेधति। षिधू शास्त्रे मङ्गल्ये च। शास्त्रं शासनम्।

114.प्रतिस्तब्ध---निस्तब्धौ च =अत्र षत्वं न स्यात्।

115.सोढ : =सोढ्रूपस्य  सस्य षत्वं न स्यात्। परिसोढा।

116.स्तम्भुसिवुसहां चङि =उपसर्गनिमित्त एषां सस्य षो न स्यात् चङि। प्रयषिवत्। न्यसीषहत्।

117.सुनोते : स्यसनो : =स्ये सनि च परे सुञ :षो न स्यात्। विसोष्यति।

118.सदे : परस्य लिटि =सदे : अभ्यासस्य षत्वं नस्यात् लिट्। ससाद। सीदिथ। निषसाद।निषेदतु :।

119.निव्यभिभ्योऽद्व्यवाये अपि =सस्य मूर्धन्य : न्यषीधत्। न्यसीत्। व्यसीदत्। व्यषीदत्। अभ्यौष्टौत्। अभ्यस्तौत्।    

 

                                            । इति तृतीय---पाद : समाप्त :।        Pro.Total = 3778 + 119 =3897. :

 

                                       श्री पाणिनि---हृदयम् अष्टम : अध्याय : चतुर्थ : पाद :

 

1.रषाभ्यां नो ण : समानपदे =एकपदस्य आभ्यां रेफषकाराभ्यां परस्य नस्य ण : स्यात्। पूष्ण :। पूष्णा।

2.अट्--कुप्---व---आङ्---नुम्---व्यवाये अपि =अट् कवर्ग पवर्ग आङ् नुम् चेत्यैतै : व्यस्तै : यथासंभवं मिलितै : च व्यवधान अपि रषाभ्यां नॊ ण : समानपदे।

3.पूर्वपदात् संज्ञायाम् अग : =पूर्वपसथात् निमित्तात् परस्य नस्य ण : स्यात् संज्ञायां न तु गकारव्यवधाने। द्रुरिव नासिका यस्य द्रुणस :। खरणस :। अग : किम् ? ऋचाम् अयनम् ऋगयनम्।

4.वनं  पुगा---मिश्रका---सिध्रका---सारिका---कोटर---अग्रेभ्य :  =अर्थं स्पष्टम्। 5.प्रनिरन्तशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायाम् अपि =अर्थं स्पष्टम्।

6.विभाषा औषधिवनस्पतिभ्य : =अर्थं स्पष्टम्।

7.अह्नोऽअद्न्तात् =

8.वाहनमहितात् =इक्षुवाहणम्। इन्द्रवाहनम्। आरोप्य यत् उह्यते तत् आहितम्।

9.पानं देशे =पूर्वपदस्थात् निमित्तात् परस्य पनस्य नस्य णत्वं स्यात्। क्षीरं पानं येषां ते क्षीरपाणा : उशीनरा :।

10.वा भाव---करणयो : =क्षीरपाणम्। क्षीरपानम्। गिरिनद्यादीनां वा गिरिणदी। गिरिनदी। वररुचि : चक्रनितम्बा। चक्रणितम्बा।

11.प्रातिपदिकान्तनुम्विभक्तिषु च =पूर्वपदस्थात् निमित्तात् परस्य एषु स्थितस्य नस्य ण : स्यात्। प्रातिपदिकम् =माषवापिणौ। नुमि व्रीहिवापिणि। विभक्तौ माषवापेण। पक्षे माष्वापिनाम् इति आदि।

12.एक---अच्---अत्तरपदे ण : =पुनर्भूणाम्।

13.कुमति च =कवर्गवत्युत्तरपदे प्राग्वत्। हरिकामिणौ। हरिकामणि। हरिकामेण।

14.उपसर्गात् असमासे अपि ण उपदेशस्य =उपसर्गस्थात् निमित्तात् परस्य ण उपदेशस्य धातो : नस्य ण : स्यात् समासे असमासे अपि। प्रणदति। प्रणिनदति। 

15.हिनु मीना =उपसर्गस्थात् निमित्तात् परस्य एतयो : नस्य णत्वं स्यात्। प्रहिणोति। प्रमीणाति।

16.आनि लोट् =प्रभवाणि।

17.नेर्गदनदपतपदघुमास्यतिहन्ति यातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेगधिषु च =

18.शेषे विभाषा अकरवादावषान्त उपदेशे  =

19.अनिते : =उपसर्गस्थात् निमित्तात् परस्य अनिते : नस्य ण : स्यात्। प्राणिति।

20.उभौ साभ्यासस्य =साभ्यासस्य अनिते : उभौ नकारौ णत्वं प्राप्नुत : निमित्ते सत्। प्राणिणत्।

21.हन्तेरत्पूर्वस्य =उपसर्गात् निमित्तात् परस्य हन्ते : नस्य णत्वं स्यात्। प्रहण्यात्। हन्ते : अत् पूर्वस्य एव नस्य णत्वं स्यात्। नान्यस्य। प्रघ्नन्ति। परिभाषा  = अनन्तरस्य विधि : वा भवति प्रतिषेधो वा। इति न्यायं बाधित्वा एकाच् उत्तरपद इति णत्वमपि निवर्त्यते। नकारे परे कुत्वविधिसामर्थ्यात् अल्लोपो न स्थानिवत्। वृत्रघ्न :।

22.वमोर्वा =उपसर्गस्थात् निमित्तात् परस्य हन्ते नस्य णो वा स्यात् वमयो : पतयो :। प्रहण्मि , प्रहन्मि। प्रहण्व : , प्रहन्व :।

23.अन्तरदेशे =अन्त : शब्दात् हन्ते : नस्य ण : स्यात्। अन्तर्हणनम्। अन्तर्हननं देश :। अत्पूर्वस्य इत्येव। अन्तर्घ्नन्ति। तपर : किम् ? अन्तरघानि।

24.अय्नं च =अयनस्य अन्त : शब्दात् परस्य। अन्तरयणम्। अदेश इति एव। अन्तरयन : देश :।

25.छन्दसि ऋत्---अवग्रहणात् =ऋकारान्तात् वग्रहात् परस्य नस्य ण :। नृमण :। पितृयाणम्। अवगृह्यते =विच्छिद्य पठ्यते।

26.नश्च धातुस्थोरुषुभ्य : =धातुस्थात्। अग्ने रक्षा ण :। शिक्षा णो अस्मिन्। उरुणस्कृधि। अभीषुण :। मो षु ण :। प्र ण आयूँषि तारिषत्।

27.उपसर्गात् अनोत्पर : =भाष्यकार : इदं सूत्रं न अङ्गीचकार। उन्नस :। Instead इदं सूत्रम् =उपसर्गात् बहुलम् =प्रणस :। वेर्ग्रो वक्तव्य : =विग्र :। भट्टि : तु विनस इति आह।

28.कृत्यच : =उपसर्गस्थात् निमित्तात् परस्य अच : उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात्। प्रयाणीयम्। अच : किम् ? प्रमग्न :।

29.णेर्विभाषा =उपसर्गस्थात् निमित्तात् परस्य ण्यन्तात् विहितो य : कृत्तत्स्थस्य नस्य णत्वं वो स्यात्। प्रयापणीयम् , प्रयापनीयम्। विहितविशेषणं किम् ? यका व्यवधाने यथा स्यात् , प्रयाप्यमाणं पश्य। णत्वे दुर उपसर्गत्वं न इति उक्तम् , दुर्यानम् , दुर्यापनम्।

30.हलश्चेजुपधात् =हलादे : इच् उपधात् कृन्नस्य अच : पर :णो वा स्यात्। प्रकोपणीयम् , प्रकोपनीयम्। इजुपधात् किम् ? प्रवपणीयम्।

31.इजादे : सनुम : =सनुम : चेत् भवति तर्हि इजादे : हलन्तात् व : विहित : कृत्तत्स्थस्यैव। प्रेङ्खणीयम्। इजादे : किम् ? मगि सर्पणे प्रमङ्गनीयम्। नुम् ग्रहणम् अनुस्वार----उपलक्षणम्। अट्कुप्वाङ् इति सूत्रे अपि एवम्। तेनेह न प्रेन्वनम्। इह तु स्यात् एव।प्रोम्मणम्।

32.वा निंसनिक्षविन्दाम् =एषां नस्य णो वा स्यात् किति परे। प्रणिसितव्यम् ,प्रनिंसितव्यम्।

33.न भाभूपूकमिगमिप्यायीवेपाम् =एब्य : कृन्नस्य णो न। प्रभानीयम्। प्रभवनीयम्। "पूञ : एव इह ग्रहणम् इष्यते।" इति वाच्यम्। पूङ : तु प्रपवणीय : सोम :। ण्यन्तमादीनामुपसंख्यानम्। प्रभापनीयम्।

34.षात् पदान्तात्। =नस्य णो न। निष्पानम्। सर्पिष्पानम्। षात् किम् ? निणय :। पदान्तात् किम् ? पुष्णाति। पदे अन्ते पदान्तोऽयम् इति सप्तमी समास : अयम्। तेन इह न सर्पिष्केण।

35.नशे : षान्तस्य =णत्वं न स्यात् =प्रनंष्टा।अन्तग्रहणं भूतपूर्वप्रत्प्पत्यर्थम्। प्रन्ङ्क्ष्यति , नशिष्यति।

36.पदान्तस्य पदान्तस्य नस्य णत्वं न स्यात्। रामान्।

37.पदव्यवाये अपि =पदेन व्यवधाने अपि णत्वं न स्यात्। माषकुम्भवापेन।चतुरङ्गयोगेन्। अतद्धित इति वाच्यम्। आर्द्रगोमयेण। शुष्कगोमयेण।

38.क्षुभ्नादिषु च =एषु णत्वं न स्यात्। दीर्घाह्नी प्रावृट्। एवंचैतदर्थमह्न इति अदन्तात् अनुकरणक्लेश : न कर्तव्य :। प्रातिपदिकान्त इति णत्ववारणाय क्षुभ्नादिषु पाठस्य आव्श्यकत्वात्। अत् अन्तात् इति तपरकरणान्नेह =परागतम् अह : =पराह्ण :।

39.स्तो : श्चुना श्चु : =सकार---तवर्गयो : शकार---चवर्गाभ्यां योगे शकार---चवर्गौ स्त :। हरिश्शेते। रामश्चिनोति।

40.ष्टुना ष्टु : =स्तो : ष्टुना योगे ष्टु : स्यात्। रामष्षष्ठ :। रामष्टीकते। तट्टीका। चक्रिण्ढौकसे।

41.न पदान्ताट्टोरनाम् =पदान्तात् ट वर्गात् परस्य अनाम्(ष्ष्ठी---विभक्ति) स्तो : ष्टु : न स्यात्।षट्----सन्त :। षत् ते। पदान्तात् किम् ? ईट्टे। टो : किम् ? सर्पिष्टमम्।

42.तो : षि =त वर्गस्य षकारे परे न ष्टुत्वम्। सन्षष्ठ :।

43.शात् =शात् परस्य त वर्गस्य श्चुत्वं न स्यात्। विश्न :। प्रश्न :।

44.यरोऽनुनासिकेऽनुनासिको वा =यर : पदान्तस्य अनुनासिके परे अनुनासिको वा स्यात्।

एतन्मुरारि :। एतद्मुरारि :। But चतुर्मुख : is exception. प्रत्यये भाषायां नित्यम् ---वररुचि :। तन्मात्रम्। चिन्मात्रम्।

45.अचो रहाभ्यां द्वे =यर् gets द्वित्वम् or does not get द्वित्वम् , यर् comes after अच् like and   हर्य्यनुभव :। नह्य्यस्ति।| 

46.अनचि च =यर् when comes after अच् gets द्वित्वम् or does not get द्वित्वम्। But when हल् comes after अच् gets only द्वित्वम्। वाक् , वाक्क्।

47.नाऽदिन्याक्रोशे पुत्रस्य =When the word अदिनी is added after the word पुत्र , the letter “ त् " in the word पुत्र does not get द्वित्वम् in the case पुत्रादिनी is used in संबोधन विभक्ति।तत्परे च पुत्रपुत्रादिनी। वा हत---जग्धयो :। पुत्रहती। पुत्त्रहती। पुत्रजग्धी। पुत्त्रजग्धी।

48.शरोऽचि =अचि परे शर : नद्वे स्त :। चतुर्षु। प्रियचत्वा :। हे प्रियचत्व :। प्रियचत्वारौ।

प्रियचत्वार :।

49.त्रिप्रभृतिषु शाकटायनस्य =According to शाकटायन when 3 letters combine together, द्वित्वम् gets विभाषा। इन्द्र :। इन्न्द्र :।

50.सर्वत्र शाकल्यस्य =According to शाकल्य, in any circumstances there is no द्वित्वम्। अर्क :। ब्रह्मा।

51.दीर्घात् आचार्याणाम् =After long vowels, there is no द्वित्वम्। दात्रम्। पात्रम्।

52.झलां जश् झशि =स्पष्टम्। इति धकारस्य दकार :।

53.अभ्यासे चर् च =अभ्यासे चर् चापि स्यात्। अभ्यासे झलां चर : स्यु : जश्च। झशां जश :। खयां चर :। तत्रापि प्रकितिजशां प्रकृतिजश :। प्रकृति चरां प्रकृतिचर : इति विवेक :। आन्तरतम्यात्।54.खरि च =खरि परे झलां चर : स्यु :। तच्छिव :। वररुचि : छत्वम् अमि इति। तच्छोकेन। अमि कम् ? वाक्च्योतति।

55.वाऽवसाने =अवसाने झलां चरो वा स्यु :। रामात् or रामाद्।

56.अण : अप्रगृह्यस्य अनुनासिक : =अप्रगृह्यस्य अण : अवसाने अनुनासिको वा स्यात्। दधिं दधि। अप्रगृह्यस्य किम् ? अग्नी।

57.अनुस्वारस्य ययि परसवर्ण : =स्पष्टम्। अङ्कित :। अञ्चित :। कुण्ठित :। शान्त :। गुम्फित :।

58.वा पदान्तस्य =पदान्तस्य =पदान्तस्य अनुस्वारस्य ययि परसवर्ण : स्यात्। त्वँ करोषि। त्वं करोषि। सँयन्ता। संयन्ता।

59.तोर्लि =तवर्गस्य लकारे परे परसवर्ण : स्यात्। तल्लय :। विद्वाँलिखति।

60.उद : स्था---स्तम्भो : पूर्वस्य =उद : परस्य स्था---स्थम्भो : पूर्वसवर्ण : स्यात्। उत्थापनम्। उत्तम्भनम्। झर : झरि इति सस्य लोप :।

61.झय : होऽन्यतरस्याम् =झस्य परस्य हस्य पूर्वसवर्ण : वा स्यात्। वाक्घरि :। वाग्---हरि :।

62.शश्छोऽटि =पदान्तात् झय : परस्य शस्य छो वा स्यात् अटि। तच्छिव :।

63.हल : यमां यमि लोप : =यम् gets/does not get  लोप , when यम् comes after हल्। आदित्यं

हवि :। माहात्म्यम्।

64.झर : झरि सवर्णे =If सवर्ण झर् comes after हल् , झर् gets/does not get लोप/gets द्वित्वम्। कृष्णर्दि : कृष्णार्दि : कृष्णार्द्दि :।

65.उदातात् अनुदात्तस्य स्वरित : =उदात्तात् परस्य अनुदात्तस्य स्वरत : स्यात्। अग्निमीले।

66.न उदात्त---स्वरितोदयम् अगार्ग्यकाश्यपगालवानाम् =उदात्तपर : स्वरितपर : च अनुदात्त : स्वरित : न स्यात्। गार्ग्यादिमते स्यात्  एव। प्र य आ रु :। वोश्वा : :क्वा 3 or 1 भीशव :।

67.a pause अ =विवृतमनूद्य संवृत : अनेन विधीयते। अस्य च अष्टाध्यायीं संपूणां प्रत्यसिद्धत्वात्शास्त्र---दृष्ट्या विवृतम् अस्ति एव। तथा च सूत्रम्। All the above mentioned rules I 8 अध्यायाs start with the letter  अ " int the माहेश्वराणि प्रत्याहार सूत्राणि and with the letter in the last सूत्र of 8th अध्याय and again start with “ अ "। Even the first सूत्र of first अध्याय " वृद्धिरादैच् " starts with the letter “ व् " =उ + अ। उ सsignifies गणेश and “ अ " signifies the first letter of the alphabets of all languages. Rightly Tirukkural of Tamil says that for all letters “ अ " is the first letter. But महर्षि पाणिनि : declare that last letter is also “ “| शास्त्र declares thate it is not the end but it is the beginning also. So the beginning and are the same. Considering Accountancy, the closing balance will be the opening balance of next day transactions. But the closing balance need not be the same as opening balance. According to महर्षि पाणिनि : the opening balance and closing  balance is the same as far as human beings are concerned namely the letter " अ "। That is human being utters his first letter “ अ " and ends his life with the same letter “ अ "। If पुनर्जन्म concept  is accepted  his/her previous birth should have ended with “ अ " and the new birth should have been begun with the same " अ "। Between the end “ अ " of previous birth and the beginning of the  new birth ’ अ " there is a long gap/pause. Between the beginning “अ " of new birth and the end :“ अ " of new birth there is a small gap/ pause which is denoted in the last सूत्र of अष्टाध्यायी। So the chain of birth and rebirth as established in योग सूत्र of महर्षि : पतञ्जलि : or सूत्र of birth/rebirth is explained in the last सूत्र of अष्टाध्यायी। Between two s which is divided by a pause there are innumerable number of human beings belonging to all sorts of life style which is aptly said by William Shakespeare  :- “The world is a stage where human beings are actors.”

 । इति चतुर्थ---पाद : समाप्त :। अष्टम---अध्याय : च समाप्त :।       Pro.Total = 3897 + 67 = 3964

                                            । इति श्रीपाणिनि---हृदयम् संपूर्णम्।